वांछित मन्त्र चुनें

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

arvāg rathaṁ ni yacchatam pibataṁ somyam madhu | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe ||

पद पाठ

अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥ ८.३५.२२

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:22 | अष्टक:6» अध्याय:3» वर्ग:17» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे राजन् तथा मन्त्रिवर्ग ! आप स्वकीय (रथम्) रथ को (अर्वाग्) हम लोगों की ओर (नियच्छतम्) लावें, लाकर (सोम्यम्) सोमरसयुक्त (मधु) मधु को (पिबतम्) पीवें। हे देवो ! (आयातम्) हमारी ओर आवें (आगतम्) पुनः पुनः आवें (आवस्युः) रक्षाभिलाषी (अहम्) मैं (वाम्) आप दोनों को (हुवे) बुलाता हूँ। (दाशुषे) मुझ भक्त को (रत्नानि+धत्तम्) रत्न देवें ॥२२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विना राजानौ ! स्वकीयं रथम्। अर्वागस्मदभिमुखं। नियच्छतं प्रेरयतम्। इदं सोम्यं मधु पिबतम्। अस्मान् आयातमागच्छतम्। पुनः पुनरागतमागच्छतम्। हे देवौ ! अवस्युः रक्षणकामोऽहम्। वां युवाम् हुवे। आह्वयामि। दाशुषे भक्ताय मह्यं रत्नानि रमणीयानि विज्ञानानि धत्तं दत्तमित्यर्थः ॥२२॥