वांछित मन्त्र चुनें

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||

पद पाठ

ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१५

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:15 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा हे मन्त्रिदल ! आप दोनों (ऋभुमन्ता) तक्षा, वरही, लोहार, सुनार, रथकार इस प्रकार के व्यवसायी पुरुषों का नाम ऋभु है, उनसे युक्त हैं। पुनः (वृषणा) अन्नादि पदार्थों की वर्षा करनेवाले हैं। पुनः (वाजवन्ता) ज्ञान-विज्ञानसंयुक्त हैं। शेष पूर्ववत् ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवाम्। ऋभुमन्ता। तक्षा, लोहकारः स्वर्णकारो रथकार इत्येवंविधा व्यवसायिवर्गा ऋभव उच्यन्ते। तैर्युक्तौ स्थः। पुनः युवां वृषणा=अन्नादीनां वर्षितारौ स्थः। पुनः वाजवन्ता=ज्ञानिनौ स्थः व्याख्यातमन्यत् ॥१५॥