वांछित मन्त्र चुनें

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||

पद पाठ

अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१४

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:14 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (उत) और भी हे राजन् ! तथा सभाध्यक्षादि ! आप दोनों (अङ्गिरस्वन्ता) अग्निहोत्रादि शुभ कर्मों से युक्त हैं और (विष्णुवन्ता) भगवान् की आज्ञाओं से युक्त हैं। शेष पूर्ववत् ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उत अपि च। हे राजानौ ! युवाम्। अङ्गिरस्वन्ता=अङ्गिरा अग्निः। तेन अग्निहोत्रादिकर्माणि लक्ष्यन्ते तैर्युक्तौ स्थः। पुनः विष्णुर्भगवान् व्यापकः। तेन युक्तौ स्थः। व्याख्यातमन्यत् ॥१४॥