वांछित मन्त्र चुनें

मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||

पद पाठ

मि॒त्रावरु॑णऽवन्तौ । उ॒त । धर्म॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१३

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:13 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विनौ) हे राजन् ! तथा मन्त्रिमण्डल ! आप (मित्रावरुणवन्ता) ब्राह्मण और क्षत्रिय दोनों दलों से युक्त हैं (उत) और (धर्मवन्ता) धर्म से युक्त हैं और (मरुत्वन्ता) वैश्यों से यद्वा इन्द्रियों से युक्त हैं। वे आप (जरितुः) गुणों के गानेवाले के (हवम्) निवेदन को सुनने के लिये जाएँ। पुनः आप (उषसा) मृदुता से और (सूर्य्येण) तीक्ष्णता से (सजोषसा) सम्मिलित हैं, वे आप (आदित्यैः) सूर्य्यवत् प्रकाशित महापुरुषों के साथ शुभ कर्मों में (यातम्) जाया करें ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवाम्। मित्रावरुणवन्ता स्थः मित्रेण=ब्राह्मणदलेन। वरुणेन=क्षत्रियवर्गेण च युक्तौ स्थः। तथा धर्मवन्ता धर्मयुक्तौ स्थाः। अपि च। मरुत्वन्ता मरुद्भिः वैश्यैः प्राणैरिन्द्रियैर्वा युक्तौ स्थः। तौ युवाम्। जरितुर्गुणानां स्तोतुर्हवमाह्वानं प्रति। गच्छथः। युवां उषसा सूर्येण च सजोषसा संगतौ सन्तौ। आदित्यैः=सूर्य्यसमैः जनैः सह यातं गच्छतं सर्वकर्मसु ॥१३॥