वांछित मन्त्र चुनें

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

jayataṁ ca pra stutaṁ ca pra cāvatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā ||

पद पाठ

जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.११

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:11 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा मन्त्रिदल ! आप शत्रुओं को (जयतम्) जीतें और जीतकर परमात्मा की (प्र+स्तुतम्) स्तुति करें और सबकी (प्र+अवतम्) रक्षा करें। शेष पूर्ववत् ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवां शत्रून् जयतञ्च। जित्वा परमात्मानं प्रकर्षेण स्तुतम् अस्मांश्च प्रावतं प्ररक्षतञ्च ॥११॥