वांछित मन्त्र चुनें

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

pibataṁ ca tṛpṇutaṁ cā ca gacchatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā ||

पद पाठ

पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१०

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे पुण्यात्मा राजन् ! तथा हे मन्त्रिदल ! प्रजाओं से दत्त सोमरसों को (पिबतम्) आप पीवें (तृप्णुतञ्च) और उन्हें पीकर तृप्त होवें (च) और (आगच्छतम्+च) प्रजारक्षार्थ इधर उधर आवें और जाएँ (च) और जाकर (प्रजाम्+च) प्रजाओं को (धत्तम्) धारण पोषण करें (द्रविणम्+च) और हमारे लिये नानाप्रकार के सुवर्णादि द्रव्य (धत्तम्) राखें (नः) हमारे कल्याण के लिये (ऊर्जम्) बल भी आप धारण करें ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ राजानौ ! प्रजावर्गेण दत्तान् सोमरसान् प्रीत्या पिबतम्। तैश्च तृप्णुतञ्च। च पुनः सर्वत्र युवामागच्छतञ्च। गत्वा च। प्रजां धत्तं पुष्णीतञ्च। द्रविणं द्रव्यञ्च धत्तं धारयतम्। नोऽस्मदर्थं। ऊर्जं बलञ्च धत्तं बिभृतञ्च। व्याख्यातमन्यत् ॥१०॥