वांछित मन्त्र चुनें

पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे । यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्यय॑: ॥

अंग्रेज़ी लिप्यंतरण

pāhi gāyāndhaso mada indrāya medhyātithe | yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ ||

पद पाठ

पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ । यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥ ८.३३.४

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:7» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4