वांछित मन्त्र चुनें

वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ । वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥

अंग्रेज़ी लिप्यंतरण

vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī | vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṁ śatakrato ||

पद पाठ

वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ । वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ ८.३३.११

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:11 | अष्टक:6» अध्याय:3» वर्ग:9» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:11