वांछित मन्त्र चुनें

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑: । इळा॑भि॒: सं र॑भेमहि ॥

अंग्रेज़ी लिप्यंतरण

uta no gomatas kṛdhi hiraṇyavato aśvinaḥ | iḻābhiḥ saṁ rabhemahi ||

पद पाठ

उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ । इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥ ८.३२.९

ऋग्वेद » मण्डल:8» सूक्त:32» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:2» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:9