वांछित मन्त्र चुनें

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् । समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुव॑: ॥

अंग्रेज़ी लिप्यंतरण

vītihotrā kṛtadvasū daśasyantāmṛtāya kam | sam ūdho romaśaṁ hato deveṣu kṛṇuto duvaḥ ||

पद पाठ

वी॒तिऽहो॑त्रा । कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू । द॒श॒स्यन्ता॑ । अ॒मृता॑य । कम् । सम् । ऊधः॑ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु॑ । कृ॒णु॒तः॒ । दुवः॑ ॥ ८.३१.९

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:9 | अष्टक:6» अध्याय:2» वर्ग:39» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - वे दम्पती पुनः कैसे हैं−(वीतिहोत्रा) यज्ञप्रिय। यद्वा जिसकी वाणी सब ही सुनना चाहते हैं। पुनः (कृतद्वसू) सत्पात्रों में धन वितीर्ण करनेवाले। पुनः (अमृताय) अविनश्वर ईश्वर के उद्देश्य से अथवा मुक्ति की प्राप्ति के उद्देश्य से (कम्) सुख को (दशस्यन्तौ) सबमें देनेवाले। पुनः (ऊधः) गवादि और (रोमशम्) रोमयुक्त मेषादि पशुओं को (सम्+हतः) वे दोनों प्राप्त करते हैं तथा (देवेषु) माता, पिता, आचार्य, गुरु, पुरोहित तथा परमदेव ईश्वर के निमित्त (दुवः) सेवा (कृणुतः) करते हैं। पाँच ऋचाओं से दम्पती का वर्णन किया गया है ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनस्तौ दम्पती कीदृशौ। वीतिहोत्रा=वीतिहोत्रौ। वीतिः प्रियकरी होत्रा यज्ञो ययोस्तौ यज्ञप्रियावित्यर्थः। यद्वा। वीतिः कान्त्यर्थः। होत्रेति वाङ्नाम। वीतिरभिलषिता होत्रा वाणी ययोस्तौ। सर्वे जना ययोर्वाचं श्रोतुमभिलषन्त इत्यर्थः। पुनः। कृतद्वसू=कृतवसू=दकारोपजनश्छान्दसः। पात्रेषु कृतानि निक्षिप्तानि वसूनि धनानि ययोस्तौ दातारौ। पुनः। कं सुखम्। अमृताय मोक्षधर्मप्राप्तये। दशस्यन्ता सर्वेभ्यो ददतौ। पुनः ऊधः गवादिस्तनम्। तेन गवादिकं लक्ष्यते रोमशपदेन रोममय मेषादि लक्ष्यम्। ऊधो गवादिकम्। रोमशं रोमयुक्तं मेषादिकं प्राणिजातम्। संहतः संगच्छतः। संप्राप्नुतः इत्यर्थः। पुनः। देवेषु दुवः परिचर्य्यां सेवाम्। कुणुतः कुरुतः ॥९॥