वांछित मन्त्र चुनें

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह इत् ॥

अंग्रेज़ी लिप्यंतरण

aramatir anarvaṇo viśvo devasya manasā | ādityānām aneha it ||

पद पाठ

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा । आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥ ८.३१.१२

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:12 | अष्टक:6» अध्याय:2» वर्ग:40» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अनवर्णः) अविनश्वर अगम्य अगाध (देवस्य) परमदेव का (विश्वः) सकल भक्तजन (मनसा) मानसिक श्रद्धा से (अरमतिः) पूर्ण बुद्धिवाला होता है और (आदित्यानाम्) प्रत्येक मास के १२ (द्वादश) सूर्य के समान भक्तजनों का कर्म (अनेहः+इत्) निष्पाप होता है ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अनवर्णः अर्वा गम्यो गमनीयः न अर्वा अनर्वा तस्य। अगम्यस्य। देवस्य परमदेवस्य ईशस्य। विश्वः सर्वः खलु भक्तः। मनसा श्रद्धया। अरमतिः अलमतिः पर्य्याप्तबुद्धिः। जायत इति शेषः। आदित्यानाम् आदित्यानामिव अत्र लुप्तोपमा। द्वादशमासिकसूर्य्याणामिव। भक्तानां कर्म। अनेह इत् अपापकमेव भवति ॥१२॥