वांछित मन्त्र चुनें

ऐतु॑ पू॒षा र॒यिर्भग॑: स्व॒स्ति स॑र्व॒धात॑मः । उ॒रुरध्वा॑ स्व॒स्तये॑ ॥

अंग्रेज़ी लिप्यंतरण

aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ | urur adhvā svastaye ||

पद पाठ

आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः॑ । स्व॒स्ति । स॒र्व॒ऽधात॑मः । उ॒रुः । अध्वा॑ । स्व॒स्तये॑ ॥ ८.३१.११

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:11 | अष्टक:6» अध्याय:2» वर्ग:40» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (रयिः) सब जीवों को स्वस्वकर्मानुसार फल देनेवाला (भगः) सब का सेव्य तथा (सर्वधातमः) अपने आधार से सब पदार्थ को धारण करनेवाला (पूषा) पोषणकर्ता परमात्मा (स्वस्ति) कल्याण के साथ (ऐतु) हम उपासकों के निकट आवे। उसके आने के पश्चात् (अध्वा) हम लोगों का मार्ग (स्वस्तये) कल्याण के लिये (उरुः) विस्तीर्ण होवे ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - सर्वं पुष्णाति दधातीति पूषा परमात्मा, ऐतु अस्मान् उपासकान् प्रति आगच्छतु। कीदृशः। रयिः। राति जीवेभ्यः स्वस्वकर्मानुसारेण फलानि ददातीति रयिः परमदाता। पुनः। भगो भजनीयः सेवनीयः। पुनः सर्वधातमः सर्वेषां धातृतमः। आधारेण सर्वपदार्थानां धारयितृतमः। ईदृक् सः। स्वस्ति कल्याणं करोतु। तस्मिन् आगते। अस्माकम्। स्वस्तये कल्याणाय अध्वा गमनमार्गः। उरु विस्तीर्णो निरुपद्रवो भवतु ॥११॥