वांछित मन्त्र चुनें

स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: । त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

अंग्रेज़ी लिप्यंतरण

sa dṛḻhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ | tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ||

पद पाठ

सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज॑म् । अर्व॑ता । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ । त्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥ ८.१०३.५

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:5 | अष्टक:6» अध्याय:7» वर्ग:13» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5