वांछित मन्त्र चुनें

मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवै॑: । की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥

अंग्रेज़ी लिप्यंतरण

mo te riṣan ye acchoktibhir vaso gne kebhiś cid evaiḥ | kīriś cid dhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ||

पद पाठ

मो इति॑ । ते । रि॒ष॒न् । ये । अच्छो॑क्तिऽभिः । व॒सो॒ इति॑ । अग्ने॑ । केभिः॑ । चि॒त् । एवैः॑ । की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे॑ । दू॒त्या॑य । रा॒तऽह॑व्यः । सु॒ऽअ॒ध्व॒रः ॥ ८.१०३.१३

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:13 | अष्टक:6» अध्याय:7» वर्ग:15» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:13