वांछित मन्त्र चुनें

अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः । उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिर॑: ॥

अंग्रेज़ी लिप्यंतरण

adarśi gātuvittamo yasmin vratāny ādadhuḥ | upo ṣu jātam āryasya vardhanam agniṁ nakṣanta no giraḥ ||

पद पाठ

अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः । उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥ ८.१०३.१

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:1 | अष्टक:6» अध्याय:7» वर्ग:13» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:1