वांछित मन्त्र चुनें

प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे । बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥

अंग्रेज़ी लिप्यंतरण

prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre | bṛhad dha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa ||

पद पाठ

प्र॒ऽजाः । ह॒ । ति॒स्रः । अ॒ति॒ऽआय॑म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः॑ । वि॒वि॒श्रे॒ । बृ॒हत् । ह॒ । त॒स्थौ॒ भुव॑नेषु । अ॒न्तरिति॑ । पव॑मानः । ह॒रितः॑ । आ । वि॒वे॒श॒ ॥ ८.१०१.१४

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:14 | अष्टक:6» अध्याय:7» वर्ग:8» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:14