वांछित मन्त्र चुनें

मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् । दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥

अंग्रेज़ी लिप्यंतरण

manojavā ayamāna āyasīm atarat puram | divaṁ suparṇo gatvāya somaṁ vajriṇa ābharat ||

पद पाठ

मनः॑ऽजवाः । अय॑मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर॑म् । दिव॑म् । सु॒ऽप॒र्णः । ग॒त्वाय॑ । सोम॑म् । व॒ज्रिणः॑ । आ । अ॒भ॒र॒त् ॥ ८.१००.८

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:8