वांछित मन्त्र चुनें

विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते । पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥

अंग्रेज़ी लिप्यंतरण

viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate | pārāvataṁ yat purusambhṛtaṁ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave ||

पद पाठ

विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ । या । च॒कर्थ॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒ते । पारा॑वतम् । यत् । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भायः॑ । ऋषि॑ऽबन्धवे ॥ ८.१००.६

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:6 | अष्टक:6» अध्याय:7» वर्ग:4» मन्त्र:6 | मण्डल:8» अनुवाक:10» मन्त्र:6