वांछित मन्त्र चुनें

स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ । कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥

अंग्रेज़ी लिप्यंतरण

sa ā no yoniṁ sadatu preṣṭho bṛhaspatir viśvavāro yo asti | kāmo rāyaḥ suvīryasya taṁ dāt parṣan no ati saścato ariṣṭān ||

पद पाठ

सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ । कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥ ७.९७.४

ऋग्वेद » मण्डल:7» सूक्त:97» मन्त्र:4 | अष्टक:5» अध्याय:6» वर्ग:21» मन्त्र:4 | मण्डल:7» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह परमात्मा (नः) हमारे (योनिम्) हृदय में (आ, सदतु) निवास करे, (यः) जो परमात्मा (प्रेष्ठः) सबका प्रियतम (बृहस्पतिः) निखिल ब्रह्माण्डों का पति (विश्ववारः) सबका उपास्यदेव (अस्ति) है, (सुवीर्यस्य) हमको जो ब्रह्मचर्यरूपी बल (रायः) और ऐश्वर्य की (कामः) इच्छा है, (तम्) उसको (दात्) दे और (सश्चतः) उपद्रवों में फँसे हुए (नः) हमको (अरिष्टान्) सुरक्षित करके (अति, पर्षत्) शत्रुओं से बचावे ॥४॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे पुरुषो ! तुम उस परमदेव को अपने   हृदयमन्दिर में स्थान दो, जो सबका एकमात्र उपास्यदेव है और इस निखिल ब्रहमाण्ड की उत्पत्ति, स्थिति, प्रलय करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) ईश्वरः (नः) अस्माकं (योनिम्) हृदये (आसदतु) निवसतु (यः) यो हि (प्रेष्ठः) सर्वहितः (बृहस्पतिः) विश्वस्य पतिः (विश्ववारः) विश्वोपास्यः (अस्ति) विद्यते (सुवीर्यस्य) शोभनबलस्य (रायः) स्वैश्वर्यस्य च (कामः) ममाभिलाषो यः (तम्) तमिष्टं (दात्) दद्यात् तथा च (सश्चतः) उपद्रुतान् (नः) अस्मान् (अरिष्टान्) सुरक्षान्विधाय (अति पर्षत्) रक्षतु सर्वतः ॥४॥