म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् । अजा॑मिम॒न्यः श्न॒थय॑न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥
mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam | ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ ||
म॒हे । शु॒ल्काय॑ । वरु॑णस्य । नु । त्वि॒षे॑ । ओजः॑ । मि॒मा॒ते॒ इति॑ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् । अजा॑मिम् । अ॒न्यः । श्न॒थय॑न्तम् । आ । अति॑रत् । द॒भ्रेभिः॑ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय॑सः ॥ ७.८२.६