वांछित मन्त्र चुनें

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

iyam manīṣā iyam aśvinā gīr imāṁ suvṛktiṁ vṛṣaṇā juṣethām | imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् । इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.७१.६

ऋग्वेद » मण्डल:7» सूक्त:71» मन्त्र:6 | अष्टक:5» अध्याय:5» वर्ग:18» मन्त्र:6 | मण्डल:7» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

अब सब प्रजाजन अध्यापक तथा उपदेशक मिलकर परमात्मा की इस प्रकार प्रार्थना, उपासना करो कि− 

पदार्थान्वयभाषाः - (वृषणा) हे विद्यादि की कामनाओं को पूर्ण करनेवाले (अश्विना) अध्यापक तथा उपदेशको ! (इयं मनीषा) यह बुद्धि (इयं गीः) यह वाणी (इमां सुवृक्तिम्) इन परमात्मस्तुतियों को (जुषेथां) आप सेवन करें, (युवयूनि) जो तुमसे सम्बन्ध रखती हैं और (इमा ब्रह्माणि) ये ब्रह्मप्रतिपादक स्तोत्र (अग्मन्) तुम्हें प्राप्त हों और तुम सदैव यह प्रार्थना करो कि (नः) हमको (यूयं) आप (सदा) सर्वदा (स्वस्तिभिः) स्वस्तिवाचनों से (पात) पवित्र करें ॥६॥
भावार्थभाषाः - हे श्रोताजन तथा उपदेशको ! तुम मिलकर वैदिक स्तोत्रों से परमात्मा की स्तुति, प्रार्थना तथा उपासना करते हुए यह वर माँगो कि हे जगदीश्वर ! हम वेदों के अनुसार अपना आचरण बनावें, जिससे हमारा जीवन पवित्र हो ॥६॥ यह ७१वाँ सूक्त और १८वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

अथाध्यापकादिभिः सर्वैर्मिलित्वा परमात्मा एवम् उपासनीय इत्युपदिश्यते।

पदार्थान्वयभाषाः - (वृषणा) हे विद्यादिसत्कामनापूरयितारः (अश्विना) अध्यापकोपदेशकाः ! यूयं (इयम् मनीषा) इमां बुद्धिं (इयम् गीः) इमां वेदवाणीं (इमाम् सुवृक्तिम्) एताः परमात्मस्तुतीः (जुषेथाम्) सेवयत या एताः (युवयूनि) भवत्सम्बन्धिन्यः सन्ति अन्यच्च (इमा) इमानि (ब्रह्माणि) ब्रह्मप्रतिपादकानि स्तोत्राणि (अग्मन्) भवतः प्राप्नुवन्तु अन्यच्च भवन्तः प्रार्थयन्तां यत् (नः) अस्मान् (यूयम्) भवन्तः (सदा) सर्वकाले (स्वस्तिभिः) स्वस्तिवाचनादिभिः (पात) पवित्रान् कुरुत इत्यर्थः ॥६॥ इत्येकसप्ततितमं सूक्तमष्टादशो वर्गश्च समाप्तः ॥