वांछित मन्त्र चुनें

समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाध॑: । प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥

अंग्रेज़ी लिप्यंतरण

sam u vāṁ yajñam mahayaṁ namobhir huve vām mitrāvaruṇā sabādhaḥ | pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni ||

पद पाठ

सम् । ऊँ॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः॑ऽभिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒ऽबाधः॑ । प्र । वा॒म् । मन्मा॑नि । ऋ॒चसे॑ । नवा॑नि । कृ॒तानि॑ । ब्रह्म॑ । जु॒जु॒ष॒न् । इ॒मानि॑ ॥ ७.६१.६

ऋग्वेद » मण्डल:7» सूक्त:61» मन्त्र:6 | अष्टक:5» अध्याय:5» वर्ग:3» मन्त्र:6 | मण्डल:7» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

अब परमात्मा उपदेशकों के वेदवाणीयुक्त होने का उपदेश करते हैं।

पदार्थान्वयभाषाः - (मित्रावरुणा) हे अध्यापक तथा उपदेशकों ! (सबाधः) मैं जिज्ञासु (वाम्) तुम्हारे (महयम्, यज्ञम्) प्रशंसनीय यज्ञ को (सम्, ऊम्) भलेप्रकार (नमोभिः) सत्कारपूर्वक (हुवे) ग्रहण करता हूँ (वाम्) आपके (नवानि) नये (मन्मानि) व्याख्यान (प्र, ऋचसे) पदार्थज्ञान के बढ़ानेवाले हैं और (वाम्) आपके (कृतानि) दिये हुए (इमानि) ये व्याख्यान (ब्रह्म, जुजुषन्) परमात्मा के साथ जोड़ते हैं ॥६॥
भावार्थभाषाः - हे अध्यापक तथा उपदेशकों ! मैं जिज्ञासु तुम्हारे यज्ञों को सत्कारपूर्वक स्वीकार करता हुआ प्रार्थना करता हूँ कि आपके उपदेश मुझे ब्रह्म की प्राप्ति करायें ॥६॥
बार पढ़ा गया

आर्यमुनि

अथ वेदज्ञा एवोपदेशका भवेयुरित्युपदिश्यते।

पदार्थान्वयभाषाः - (मित्रावरुणा) हे अध्यापकोपदेशकौ ! (वाम्) युवयोः (महयम्) सत्कारार्हं यज्ञं (सबाधः) जिज्ञासुरहं (नमोभिः) सत्कारैः (समु) सम्यक्तया (हुवे) स्वीकुर्याम् अन्यच्च (वाम्) युवयोः करुणया (नवानि, मन्मानि) नूतनव्याख्यानानि (प्र ऋचसे) पदार्थज्ञानविवृद्धये (कृतानि) दत्तानि, अन्यच्च (वाम्) युवयोः इमानि व्याख्यानानि (ब्रह्म, जुजुषन्) ब्रह्मसम्बन्धीनि ॥६॥
भावार्थभाषाः - ईश्वरो वदति–हे अध्यापकोपदेशकौ ! भवतोः प्रवचनरूपः=अध्यापनरूपः उपदेशरूपश्च यज्ञः मयाऽऽद्रियते, अन्यच्च वेदार्थबोधकानि यानि यानि नूतनानि व्याख्यानानि तानि तानि भवद्भिः सर्वदैव दातव्यानि, यैर्वेदस्य ख्यातिर्वर्द्धेत, तद्द्वारा स्वजीवनमपि सफलीकुरुतां भवन्तौ, अस्मिन् मन्त्रे यत्कृतानि इति पदं तन्न मनुष्यस्य कृतिं बोधयति, अपि तु ईश्वरस्यैव कृतिं बोधयति, कुतः, वेदानामीश्वरज्ञानत्वात् नित्यत्वाच्च, प्रतिपादनं चैतत्–“अस्य वा महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः” बृहदा० ४।५।११ इत्यत्रेति ॥६॥