स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत्। तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥७॥
sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat | tenā sahasyenā vayaṁ ni janān svāpayāmasi ||
स॒हस्र॑ऽशृङ्गः। वृ॒ष॒भः। यः। स॒मु॒द्रात्। उ॒त्ऽआच॑रत्। तेन॑। स॒ह॒स्ये॑न। व॒यम्। नि। जना॑न्। स्वा॒प॒या॒म॒सि॒ ॥७॥
स्वामी दयानन्द सरस्वती
फिर कैसे घर में सोना आदि करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनः कीदृशे गृहे गृहस्थैः शयनादिव्यवहाराः कर्तव्य इत्याह ॥
हे मनुष्या ! यस्सहस्रशृङ्गो वृषभः सूर्यः समुद्राद्यथोदाचरत् तथा तेन सहस्येन गृहेण सह वयं जनान् तत्र नि स्वापयामसि ॥७॥