अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७॥
aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ | ghṛtaṁ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ||
अश्व॑ऽवतीः। गोऽम॑तीः। नः॒। उ॒षसः॑। वी॒रऽव॑तीः। सद॑म्। उ॒च्छ॒न्तु॒। भ॒द्राः। घृ॒तम्। दुहा॑नाः। वि॒श्वतः॑। प्रऽपी॑ताः। यू॒यम्। पा॒त॒। स्व॒स्तिऽभिः॑। सदा॑। नः॒ ॥७॥
स्वामी दयानन्द सरस्वती
फिर विदुषी स्त्री क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनर्विदुष्यः स्त्रियः किं कुर्युरित्याह ॥
हे अध्यापकोपदेशिका विदुष्यस्त्रिय ! उषास इवाश्वावतीर्गोमतीर्वीरवतीर्भद्राः प्रपीता विश्वतो घृतं दुहाना भवत्यो नः सदमुच्छन्तु यूयं स्वस्तिभिर्नस्सदा पात ॥७॥