शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥७॥
śaṁ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ | jambhayanto hiṁ vṛkaṁ rakṣāṁsi sanemy asmad yuyavann amīvāḥ ||
शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वऽता॑ता। मि॒तऽद्र॑वः। सु॒ऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षां॑सि। सऽने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥७॥
स्वामी दयानन्द सरस्वती
फिर कौन इस संसार में कल्याण करनेवाले होते हैं, इस विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनः केऽत्र कल्याणकरा भवन्तीत्याह ॥
हे विद्वांसो ! वाजिनो मितद्रवः स्वर्का हवेषु देवताताहिमिव वृकं रक्षांसि च जम्भयन्तो नोऽस्माकं शं भवन्तु यतोऽस्मत् सनेम्यमीवा युयवन् ॥७॥