वांछित मन्त्र चुनें

प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ । स नो॒ यव॑समिच्छतु ॥

अंग्रेज़ी लिप्यंतरण

parjanyāya pra gāyata divas putrāya mīḻhuṣe | sa no yavasam icchatu ||

पद पाठ

प॒र्जन्या॑य । प्र । गा॒य॒त॒ । दि॒वः । पु॒त्राय॑ । मी॒ळ्हुषे॑ । सः । नः॒ । यव॑सम् । इ॒च्छ॒तु॒ ॥ ७.१०२.१

ऋग्वेद » मण्डल:7» सूक्त:102» मन्त्र:1 | अष्टक:5» अध्याय:7» वर्ग:2» मन्त्र:1 | मण्डल:7» अनुवाक:6» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब श्लेषालङ्कार से परमात्मा और मेघ का वर्णन करते हैं।

पदार्थान्वयभाषाः - हे ऋत्विग् लोगो ! तुम (पर्जन्याय) तृप्तिजनक जो परमात्मा है, उसका (प्र, गायत) गायन करो, (सः, नः, यवसम्, इच्छतु) वः हमारे लिये ऐश्वर्य देवे, जो (दिवः, पुत्राय) द्युलोकस्थ जनों को नरक से बचाता और (मीळ्हुषे) आनन्द को वर्षाता है ॥१॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे पुरुषो ! तुम तृप्तिजनक वस्तुओं का वर्णन करो, जिससे तुममें ऐश्वर्यप्राप्ति के लिये उद्योग उत्पन्न हो ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ श्लेषेण परमात्मा मेघश्च वर्ण्यते।

पदार्थान्वयभाषाः - भो ऋत्विजः ! यूयं (पर्जन्याय) तृप्तिजनकं परमात्मानं स्तोतुं (प्र, गायत) ब्रह्म गायत (सः, नः, यवसम्, इच्छतु) स हीश्वरोऽस्मभ्यमैश्वर्यं ददातु यः (दिवः, पुत्राय) द्युलोकस्थजनान् नरकादुद्धरति तथा (मीळ्हुषे) तेषामानन्दाय भवति ॥१॥