यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम्। अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥६॥
yaṁ yuvaṁ dāśvadhvarāya devā rayiṁ dhattho vasumantam purukṣum | asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ ||
यम्। यु॒वम्। दा॒शुऽअ॑ध्वराय। दे॒वा॒। र॒यिम्। ध॒त्थः। वसु॑ऽमन्तम्। पु॒रु॒ऽक्षुम्। अ॒स्मे इति॑। सः। इ॒न्द्रा॒व॒रुणौ॒। अपि॑। स्या॒त्। प्र। यः। भ॒नक्ति॑। व॒नुषा॑म्। अश॑स्तीः ॥६॥
स्वामी दयानन्द सरस्वती
फिर राजजन क्या करें, इस विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुना राजजनाः किं कुर्य्युरित्याह ॥
हे इन्द्रावरुणाविव वर्त्तमानौ देवा ! युवं दाश्वध्वरायास्मे यं रयिं वसुमन्तं पुरुक्षुं च जनं धत्थो यो वनुषामशस्तीः प्र भनक्ति सोऽप्यतिष्ठितः स्यात् ॥६॥