तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या। परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥५॥
tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā | parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||
तव॑। त्ये। अ॒ग्ने॒। अ॒र्चयः॑। भ्राज॑न्तः। य॒न्ति॒। धृ॒ष्णु॒ऽया। परि॑ऽज्मानः। न। वि॒ऽद्युतः॑। स्वा॒नः। रथः॑। न। वा॒ज॒ऽयुः ॥५॥
स्वामी दयानन्द सरस्वती
अब शिल्पविद्यविषयक विद्वानों के गुणों को कहते हैं ॥
स्वामी दयानन्द सरस्वती
अथ शिल्पविद्याविषयकविद्वद्गुणानाह ॥
हे अग्ने ! तव सङ्गेन येऽर्चयो भ्राजन्तो धृष्णुया विद्वांसः परिज्मानो विद्युतो न वाजयुः स्वानो रथो न शिल्पविद्यां यन्ति त्ये सद्यः श्रीमन्तो जायन्ते ॥५॥