युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः। तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्तः॑॥
yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ | taṁ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ ||
युवा॑। सु॒ऽवासाः॑। परि॑ऽवीतः। आ। अ॒गा॒त्। सः। ऊँ॒ इति॑। श्रेया॑न्। भ॒व॒ति॒। जाय॑मानः। तम्। धीरा॑सः। क॒वयः॑। उत्। न॒य॒न्ति॒। सु॒ऽआ॒ध्यः॑। मन॑सा। दे॒व॒ऽयन्तः॑॥
स्वामी दयानन्द सरस्वती
फिर कैसा विद्वान् हो, इस विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनः कीदृशो विद्वान् भवतीत्याह।
योऽष्टमं वर्षमारभ्य ब्रह्मचर्येण गृहीतविद्यो युवा सुवासाः परिवीतः सन् गृहमागात्स उ विद्यायां जायमानः सञ्छ्रेयान् भवति तं देवयन्तो धीरासः स्वाध्यः कवयो मनसोन्नयन्ति ॥४॥