वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम्। बृह॒स्पतिं॒ वरे॑ण्यम्॥
vṛṣabhaṁ carṣaṇīnāṁ viśvarūpam adābhyam | bṛhaspatiṁ vareṇyam ||
वृ॒ष॒भम्। च॒र्ष॒णी॒नाम्। वि॒श्वऽरू॑पम्। अदा॑भ्यम्। बृह॒स्पति॑म्। वरे॑ण्यम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्याश्चर्षणीनां मध्ये वृषभं विश्वरूपमदाभ्यं वरेण्यं बृहस्पतिं यूयं नमस्यताऽतः पराक्रमं कामयध्वम् ॥६॥