अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः। अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः॥
asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ | asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ ||
अ॒स्मे इति॑। तत्। इ॒न्द्रा॒व॒रु॒णा॒। वसु॑। स्या॒त्। अ॒स्मे इति॑। र॒यिः। म॒रु॒तः॒। सर्व॑ऽवीरः। अ॒स्मान्। वरू॑त्रीः। श॒र॒णैः। अ॒व॒न्तु॒। अ॒स्मान्। होत्रा॑। भार॑ती। दक्षि॑णाभिः॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में अध्यापक के विषय को कहते हैं।
स्वामी दयानन्द सरस्वती
अध्यापकविषयमाह।
हे इन्द्रावरुणा यथाऽस्मे तद्वसु स्यादस्मे सर्ववीरो रयिः स्यात्। हे मरुतो यथाऽस्मान् वरूत्रीर्होत्रा भारती च शरणैर्दक्षिणाभिश्चाऽस्मानवन्तु तथैव प्रयतध्वम् ॥३॥