उ॒त ऋ॒तुर्भि॑र्ऋतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑। याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑॥
uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṁ naḥ | yām̐ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ ||
उ॒त। ऋ॒तुऽभिः॑। ऋ॒तु॒ऽपाः। पा॒हि॒। सोम॑म्। इन्द्र॑। दे॒वेभिः॑। सखि॑ऽभिः। सु॒तम्। नः॒। यान्। आ। अभ॑जः। म॒रुतः॑। ये। त्वा। अनु॑। अह॑न्। वृ॒त्रम्। अद॑धुः। तुभ्य॑म्। ओजः॑॥
स्वामी दयानन्द सरस्वती
अब सूर्य्य के विषय को अगले मन्त्र में कहते हैं।
स्वामी दयानन्द सरस्वती
अथ सूर्य्यविषयमाह।
हे इन्द्र ! त्वमृतुभिस्सहर्त्तुपाः सूर्य इव देवेभिः सखिभिः सह सुतं सोमं पाहि यान् महतो नोऽस्माँस्त्वमाभजो ये तुभ्यमोजो वृत्रं त्वा त्वां चान्वदधुस्तांस्त्वं पाहि उतापि यथा सूर्यो वृत्रमहँस्तथा शत्रून् हिन्धि ॥३॥