स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः। वै॒श्वा॒न॒रः पृ॑थृ॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑॥
sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṁhaḥ | vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||
सः। जि॒न्व॒ते॒। ज॒ठरे॑षु। प्र॒ज॒ज्ञि॒ऽवान्। वृषा॑। चि॒त्रेषु॑। नान॑दत्। न। सिं॒हः। वै॒श्वा॒न॒रः। पृ॒थु॒ऽपाजाः॑। अम॑र्त्यः। वसु॑। रत्ना॑। दय॑मानः। वि। दा॒शुषे॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
मनुष्यैर्यो जठरेषु प्रजज्ञिवान् चित्रेषु वृषा पृथुपाजा अमर्त्यो वैश्वानरो दाशुषे रत्ना वसु दयमानः सिंह इव न नानदत् स सर्वान् विजिन्वते इति विज्ञातव्यम् ॥११॥