वांछित मन्त्र चुनें

अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रो॑: । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥

अंग्रेज़ी लिप्यंतरण

asya stomebhir auśija ṛjiśvā vrajaṁ darayad vṛṣabheṇa piproḥ | sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt ||

पद पाठ

अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ । सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥ १०.९९.११

ऋग्वेद » मण्डल:10» सूक्त:99» मन्त्र:11 | अष्टक:8» अध्याय:5» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋजिश्वा) सरल ज्ञानदि गुणों को प्राप्त श्रेष्ठ जन (औशिजः) ज्ञानप्रकाश से सम्पन्न (अस्य) इस परमात्मा का (स्तोमेभिः) स्तुति-वचनों के द्वारा (पिप्रोः) पालनीय शरीर के (वृषभेण) सुखवर्षक धर्म से (वज्रं दरयत्) इन्द्रियसमूह को वृत्तिनिरोध से विदीर्ण करता है (यत्) जब (यजतः-सुत्वा)  सङ्गति करता है अध्यात्मयाजक (गीः-दीदयत्) स्तुतियों को प्रकाशित करता है (पुरः-इयानः) मन बुद्धि चित्त अहंकार को प्राप्त होता हुआ (वर्पसा-अभिभूत्) स्वरूप से निर्मल हो जाता है ॥११॥
भावार्थभाषाः - ज्ञानादि गुणों को प्राप्त हुआ ज्ञानप्रकाश से सम्पन्न स्तुतिवचनों के द्वारा परमात्मा की स्तुति करता है, तो पुनः-पुनः पालनीय शरीर के इन्द्रियसमूह को चित्तवृत्तिनिरोधरूप सुखवर्षक धर्म से क्षीण सा कर देता है, तब यह समागमकर्ता आत्मा मन बुद्धि चित अहंकार को अपने अनुकूल बना लेता है ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋजिश्वा) सरलज्ञानादिगुणप्राप्तः श्रेष्ठजनः “य ऋजीन् ज्ञानादिसरलान् गुणानश्नुते” ऋजधातोरिक् अशूङ् धातोर्ङ्वनिप्-अकारलोपश्च [ऋ० १।५२।५ दयानन्दः] (औशिजः) ज्ञानप्रकाशसम्पन्नः “औशिजः य उशिजि प्रकाशे जातः सः” [ऋ० १।१८।१ दयानन्दः] (अस्य) परमात्मनः (स्तोमेभिः) स्तुतिवचनैः (पिप्रोः) पुनः पुनः पालनीयस्य शरीरस्य-पृधातोरौणादिकः कुः प्रत्ययः श्लुवच्च (वृषभेण) सुखवर्षकधर्मेण (व्रजं दरयत्) इन्द्रियसमूहम् “व्रजं समूहम्” [ऋ० १।१०।७ दयानन्दः] वृत्तिनिरोधेन दृणाति-विदारयति (यत्) यदा (यजतः-सुत्वा) सङ्गन्ता-अध्यात्मयाजकः (गीः-दीदयत्) स्तुतीः प्रकाशयति (पुरः-इयानः) मनः-प्रभृतीनि-अन्तःकरणानि “मन एव पुरः” [काठ० १०।३।५।७] प्राप्नुवन् (वर्पसा-अभिभूत्) स्वरूपेण निर्मलो भवति ॥११॥