बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā | ādityair vā yad vasubhir marutvān sa parjanyaṁ śaṁtanave vṛṣāya ||
बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥ १०.९८.१
ब्रह्ममुनि
इस सूक्त में राष्ट्रिय सुखवृष्टि, पुरोहित और अन्नाधिकारी पर निर्भर है। जलवृष्टि आकाशीय विद्युत्, पृथिवी की ऊष्मा पर निर्भर है। विज्ञान की रीति से इनकी संगति करनी चाहिये तथा सच्ची अध्यात्मसुखवृष्टि परमात्मा के सङ्ग से प्राप्त होती है, इत्यादि विषय हैं।
ब्रह्ममुनि
अत्र सूक्ते राष्ट्रियसुखवृष्टेर्निमित्तीभूतौ विद्यावान् पुरोहितो-ऽन्नवृद्धिकर्ताऽन्नाधिकारी चेति द्वौ स्तः, एवं जलवृष्टेर्निमित्तीभूतौ आकाशीयविद्युदग्निः पृथिवीस्थोष्मा चोभौ स्तस्तयोर्विज्ञानरीत्या साङ्गत्येन वृष्टिः पातनीया। अध्यात्मानन्दवृष्टिः परमात्मनः सङ्गत्या भवतीति चैवमादयो विषयाः सन्ति।