वांछित मन्त्र चुनें

उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुर॑: । यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥

अंग्रेज़ी लिप्यंतरण

ugrā iva pravahantaḥ samāyamuḥ sākaṁ yuktā vṛṣaṇo bibhrato dhuraḥ | yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva ||

पद पाठ

उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ । यद् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥ १०.९४.६

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:6 | अष्टक:8» अध्याय:4» वर्ग:30» मन्त्र:1 | मण्डल:10» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (साकं युक्ताः) साथ रथ में युक्त हुए (धुरः-बिभ्रतः) रथधुरा को धारण करते हुए (वृषणः) बलवान् (उग्राः) वेगशील (प्रवहन्तः-इव) प्रवहन करनेवाले घोड़ों के समान (समायमुः) ये विद्वान् मनुष्यसमाज को यथावत् नियमित करते हैं, अपने उपदेश के अनुसार चलाते हैं (यत्) जब (श्वसन्तः) आश्वासन देते हुए (जग्रसानाः) सुखभोग कराते हुए (अराविषुः) उस मानवसमाज को उपदेश देते हैं, तो (अर्वताम्) घोड़ों का (प्रोथथः-इव) हिनहिनाने शब्द के समान (एषां शृण्वे) इनका उपदेश सुना जाता है ॥६॥
भावार्थभाषाः - विद्वान् जन मानवसमाज का वहन करते हैं, जैसे अच्छे घोड़े रथ को वहन करते हैं, मानवसमाज को नियमित ठीक चलते देखकर वे प्रसन्न होते हुए उत्तमोत्तम उपदेश किया करते हैं, जैसे अच्छे चलते हुए रथ को देखकर घोड़े प्रसन्नता से हिनहिनाना शब्द करते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (साकं युक्ताः) सह रथे युक्ताः (धुरः-बिभ्रतः-वृषणः) रथधुरं धारयन्तो बलवन्तः (उग्राः-प्रवहन्तः-इव) वेगशीलाः प्रवोढारोऽश्वा इव (समायमुः) एते विद्वांसः-मनुष्यसमाजं सम्यक्-आयतं कुर्वन्ति स्वोपदेशे चालयन्ति (यत्) यदा (श्वसन्तः-जग्रसानाः-अराविषुः) आश्वासयन्तः आश्वासनं प्रयच्छन्तः सुखेन ग्रासयमानाः सुखभोगं कार्यन्तस्तं मानवसमाजमुपदिशन्ति तदा (अर्वतां प्रोथथः-इव एषां शृण्वे) अश्वानां ह्रेष शब्द इव “प्रोथत् शब्दं कुर्वत्” [ऋ० ७।३।२ दयानन्दः] उपदेशः श्रूयते ॥६॥