वांछित मन्त्र चुनें

तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः । अ॒ना॒तु॒रा अ॒जरा॒: स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥

अंग्रेज़ी लिप्यंतरण

tṛdilā atṛdilāso adrayo śramaṇā aśṛthitā amṛtyavaḥ | anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ||

पद पाठ

तृ॒दि॒लाः । अतृ॑दिलासः । अद्र॑यः । अ॒श्र॒म॒णाः । अशृ॑थिताः । अमृ॑त्यवः । अ॒ना॒तु॒राः । अ॒जराः॑ । स्थ । अम॑विष्णवः । सु॒ऽपी॒वसः॑ । अतृ॑षिताः । अतृ॑ष्णऽजः ॥ १०.९४.११

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:11 | अष्टक:8» अध्याय:4» वर्ग:31» मन्त्र:1 | मण्डल:10» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तृदिलाः) पापदुःखनाशक (अतृदिलासः) स्वयं किसी से भी न हिंसित (अद्रयः) श्लोककर्त्ता-ज्ञानवक्ता (अश्रमणाः) श्रमरहित निरन्तर कार्यसमर्थ (अशृथिताः) शिथिलतारहित-प्रयत्नवान् (अमृत्यवः) मृत्युभय से रहित (अनातुराः) पीड़ारहित अव्याकुल (अजराः) जरारहित (अमविष्णवः) प्रवचन में व्यापी-प्रवचनकुशल (सुपीवसः) सुपुष्ट (अतृषिताः) तृष्णारहित-वासनारहित (अतृष्णजः) तृष्णा न उठने देनेवाले संयमी जितेन्द्रिय (स्थ) हो, वे तुम सेवनीय हो ॥११॥
भावार्थभाषाः - जो उत्तम विद्वान् पापदुःखनाशक, अहिंसनीय, ज्ञानवक्ता, न भ्रान्त होनेवाले, कर्मठ, अशिथिल, मृत्युभयरहित, अव्याकुल-शान्त, जरारहित, प्रवचनकुशल, स्वस्थ, वासनारहित, जितेन्द्रिय होते हैं, वे आदर योग्य हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तृदिलाः-अतृदिलासः) पापदुःखनाशकाः “तृदिन् हिंसायाम्” (रुधादि०) तत इलच् प्रत्यय औणादिको बाहुलकात् स्वयं केनापि न हिंस्यः (अद्रयः) श्लोककर्त्तारो ज्ञानवक्तारः (अश्रमणाः) श्रमः श्रमणं तद्रहिताः सततकार्यशक्ताः (अशृथिताः) शृथिता-शिथिलता तद्रहिताः प्रयत्नवन्तः (अमृत्यवः) मृत्युभयरहिताः (अनातुराः) पीडारहिताः (अजराः) जरारहिताः (अमविष्णवः) अमे शब्दे प्रवचने व्यापिनः (सुपीवसः) सुपुष्टाः (अतृषिताः) तृष्णारहिताः वासनारहिताः (अतृष्णजः) तृष्णां न जनयन्ति ते जितेन्द्रियाः (स्थ) भवथ, ते सेवनीयाः ॥११॥