वांछित मन्त्र चुनें

कृ॒धी नो॒ अह्र॑यो देव सवित॒: स च॑ स्तुषे म॒घोना॑म् । स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥

अंग्रेज़ी लिप्यंतरण

kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām | saho na indro vahnibhir ny eṣāṁ carṣaṇīnāṁ cakraṁ raśmiṁ na yoyuve ||

पद पाठ

कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् । स॒हः । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥ १०.९३.९

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:27» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देव सवितः) हे उत्पादक प्रेरक देव परमात्मा ! (नः-अह्रयः कृधि) हमें सर्व विद्याओं में व्याप्त कर (मघोनाम्) ऐश्वर्यवालों में (सः-च स्तुषे) वह तू स्तुति में लाया जाता है (नः सहः) हमें बलवान् (इन्द्रः-वह्निभिः) परमात्मा निर्वाहक गुणों से (एषां-चर्षणीनाम्) इन मनुष्यों के मध्य में (चक्रं रश्मिं न) रथ में चक्र प्रग्रह-लगाम की भाँति (न योयुवे) निरन्तर मिला ॥९॥
भावार्थभाषाः - उत्पादक परमात्मा सर्वविद्याओं में व्याप्त तथा विद्वान् मनुष्यों के मध्य में सङ्गत कर देता है, उनकी श्रेणी में नियुक्त कर देता है रथ में चक्र और प्रग्रह-लगाम की भाँति, वह ऐसा परमात्मा स्तुति करने योग्य है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देव सवितः) हे उत्पादक प्रेरक देव परमात्मन् ! (नः-अह्रयः कृधि) अह्रीन् ‘विभक्तिव्यत्ययेन द्वितीयास्थाने प्रथमा’ अस्मान् सर्वविद्याव्याप्तान् प्राप्नुवन्ति सर्वा विद्या ये ते विद्वांसः “अह व्याप्तौ तस्मात् बाहुलकादौणादिकः क्रिः प्रत्ययः” [यजु० ३।३६। दयानन्दः] कुरु (मघोनां सः-च स्तुषे) ऐश्वर्यवतां मध्ये स च त्वं स्तूयसे (नः सहः-इन्द्रः-वह्निभिः) अस्मान् बलवान् परमात्मा निर्वाहकैर्गुणैः (एषां-चर्षणीनाम्) एतेषां मनुष्याणां मध्ये (चक्रं रश्मिं न नि योयुवे) चक्रं प्रग्रहमिव निमिश्रय-नियोजय निरन्तरं संयोजय ॥९॥