वांछित मन्त्र चुनें

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रव॑: । पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥

अंग्रेज़ी लिप्यंतरण

aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ | pṛkṣaṁ vājasya sātaye pṛkṣaṁ rāyota turvaṇe ||

पद पाठ

आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ । पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥ १०.९३.१०

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:27» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्यावापृथिवी) हे माता पिता के समान स्त्री पुरुषों! (अस्मे) हमारे (एषु वीरेषु) इन पुत्रों में (महत् विश्वचर्षणि) महान् सर्वजनहित-सार्वजनिक (श्रवः-आधातम्) श्रवणीय-यशस्य ज्ञान धन को भली-भाँति धारण कराओ (वाजस्य) अध्यात्मबल के (सातये) सम्भजन सम्यक् प्राप्ति के लिए (पृक्षम्) सम्पर्क स्थापित करो (उत) और (राया) सब ऐश्वर्य से (तुर्वणे पृक्षम्) शत्रुओं के हिंसन के लिये सम्पर्क बनाओ ॥१०॥
भावार्थभाषाः - समाज और राष्ट्र के स्त्री पुरुष युवक जनों में सर्वजनहितकर ज्ञान को प्रसारित करें तथा बल की प्राप्ति के लिए अपना सम्पर्क स्थापित करें। धनैश्वर्य से शत्रु के नाशार्थ सहयोग सम्पर्क बनावें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्यावापृथिवी) हे मातापितृसदृशौ स्त्रीपुरुषौ ! (अस्मे) अस्माकम् (एषु वीरेषु) एतेषे पुत्रेषु (महत्-विश्वचर्षणि श्रवः-आधातम्) महत् खलु सर्वजनहितं सार्वजनिकं श्रवणीयं यशस्यं ज्ञानधनं समन्ताद् धारयतम् (वाजस्य सातये-पृक्षम्) अध्यात्मबलस्य सम्भजनाय सम्पर्कं रक्षतम् (उत) अपि च (राया) सर्वैश्वर्येण (तुर्वणे पृक्षम्) शत्रूणां हिंसनाय सम्पर्कं धारयतम् ॥१०॥