वांछित मन्त्र चुनें

स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन । येभि॑: शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥

अंग्रेज़ी लिप्यंतरण

stomaṁ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana | yebhiḥ śivaḥ svavām̐ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ ||

पद पाठ

स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ । येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥ १०.९२.९

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:24» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) तुम इस (अद्य) इस अवसर पर (शिक्वसे) शक्तिमान् (क्षयद्वीराय) उपासकों के अन्दर प्राण जिसके द्वारा बसते हैं, ऐसे उस (रुद्राय) दुष्टों को रुलानेवाले परमात्मा के लिए (नमसा) आर्द्रभाव से (स्तोमम्) स्तुतिसमूहों को (दिदिष्टन) समर्पित करो (येभिः) जिन (एवयावभिः) ऐसे परमात्मज्ञान को प्राप्त करनेवालों, परमात्मा को साक्षात् करनेवालों उपासकों (निकामभिः) नित्य परमात्मा को चाहनेवालों के द्वारा प्राप्त करने योग्य है (शिवः) कल्याणकर (स्ववान्) स्वाधारवाला (स्वयशाः) स्वरूप से यशस्वी (दिवः सिषक्ति) अपनी कामना करनेवालों को स्वानन्द से सींचता है ॥९॥
भावार्थभाषाः - उपासक प्राणायामादि द्वारा शक्तिसम्पन्न बनानेवाले परमात्मा के लिए आर्द्रभाव से निरन्तर स्तुति करता है तथा जिन लोगों ने परमात्मविज्ञान तथा उसके स्वरूप को साक्षात् किया है, ऐसे विज्ञानियों उपासकों के लिए उनकी कामना के अनुसार आनन्द का सिञ्चन करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) यूयम् ‘व्यत्ययेन द्वितीया’ (अद्य) अस्मिन्नवसरे (शिक्वसे) शक्तिमते ‘शिक्वसः शक्तिमन्तः’ [ऋ० ५।५४।४ दयानन्दः] (क्षयद्वीराय) उपासकाभ्यन्तरे निवसन्ति वीराः प्राणा येन तस्मै “क्षयद्वीरस्य क्षयन्तो निवासिता वीरा येन तस्य” [ऋ० १।११४।३ दयानन्दः] (रुद्राय) दुष्टानां रोदयित्रे परमेश्वराय ‘रुद्रः दुष्टानां रोदयिता’ [ऋ० २।१।६ दयानन्दः] ‘रुद्रः परमेश्वरः’ [ऋ० १।१४३।३ दयानन्दः] (नमसा स्तोमं दिदिष्टन) आर्द्रीभावेन ‘नमः आर्द्रीभावे’ [यजु० २।३२ दयानन्दः] दिशत समर्पयत ‘दिश अतिसर्जने’ [तुदादि:०] सतः ‘बहुलं छन्दसि’ [अष्टा० २।४।७६] श्लुः, पुनः ‘तप्तनप्तनथनाश्च’ [अष्टा० ७।१।४५] इति तनप् प्रत्ययः (येभिः-एवयावभिः) यैः-एवं परमात्मविज्ञानं प्राप्नुवद्भिस्तत्साक्षात्कारं कुर्वद्भिरुपासकैः “एव याव्नः-य एवं विज्ञानं यान्ति तान्” [ऋ० २।३४।११ दयानन्दः] एव शब्दोपपदे या धातोः “आतो मनिन्क्वनिब्वनिपश्च” [अष्टा० ३।२।७४] वनिप् प्रत्ययः (निकामभिः) नित्यं परमात्मानं कामयमानैः ‘निकामैः नित्यं कामो येषां तैः’ [ऋ० ४।१६।६ दयानन्दः] उपासकैः प्राप्यः (शिवः) कल्याणप्रदः (स्ववान्) स्वाधारवान् (स्वयशाः) स्व स्वरूपतो यशस्वी (दिवः सिषक्ति) स्वकामनाकर्तॄन् स्वानन्देन सिञ्चति “सिषक्ति सिञ्चति” [ऋ० ४।२१।७ दयानन्दः] ॥९॥