वांछित मन्त्र चुनें

प्र न॑: पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ । आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥

अंग्रेज़ी लिप्यंतरण

pra naḥ pūṣā carathaṁ viśvadevyo pāṁ napād avatu vāyur iṣṭaye | ātmānaṁ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam ||

पद पाठ

प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ । आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥ १०.९२.१३

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:13 | अष्टक:8» अध्याय:4» वर्ग:25» मन्त्र:3 | मण्डल:10» अनुवाक:8» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वदेव्यः) सब विद्वानों तथा भौतिक देवों का आश्रय (पूषा) पोषणकारी परमात्मा (नः चरथम्) हमारे चरणशील-जङ्गम मनुष्यादिकों को (प्र-अवतु) भलीभाँति सुरक्षित रखे (इष्टये) अभीष्ट साधने के लिये (वायुः) वह जीवनप्रद (अपां नपात्) प्राणों को न गिरानेवाला हो (वस्यः) अतिश्रेष्ठ (वातम् आत्मानम्) जीवनप्रद व्यापक परमात्मा को (अभि-अर्चत) पूजो (तत्) उस (सुहवा) उत्तम प्रार्थना करनेवाले (अश्विना) सुशिक्षित स्त्री-पुरुष (यामनि) अपनी जीवनयात्रा में (श्रुतम्) उसे सुनें, उसका श्रवण करें ॥१३॥
भावार्थभाषाः - परमात्मा विद्वानों सूर्य आदि का आश्रयदाता, पोषणकर्त्ता, जङ्गम की इष्टसिद्धिकर्त्ता, जीवनप्रद प्राणों का प्रदानकर्त्ता है, उसका श्रवणज्ञान स्त्री-पुरुषों को करना चाहिये ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वदेव्यः) सर्वदेवाश्रयः (पूषा) पोषयिता परमात्मा (नः चरथम्) अस्माकं चरणशीलं प्राणवन्तं मनुष्यादिकं (प्र-अवतु) प्ररक्षतु (इष्टये) इष्टसाधनाय (वायुः) स जीवनप्रदः (अपां नपात्) प्राणानाम् “प्राणा वा आपः” [ता० ९।९।४] न पातयिता भवतु (वस्यः) अतिश्रेष्ठं (वातम्-आत्मानम्) जीवनप्रदं व्यापकं परमात्मानम् (अभि-अर्चत) पूजयत (तत्) तम् “लिङ्गव्यत्ययः” (सुहवा-अश्विना) उत्तमाह्वानकर्तारौ शोभनप्रार्थनावन्तौ सुशिक्षितौ स्त्रीपुरुषौ “अश्विना सुशिक्षितौ स्त्रीपुरुषौ” [यजुः०३८।१२ दयानन्दः] (यामनि श्रुतम्) जीवनयात्रायां शृणुतम् ॥१३॥