वांछित मन्त्र चुनें

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पस॒: सूर्य॑स्येव र॒श्मय॑: ॥

अंग्रेज़ी लिप्यंतरण

prajānann agne tava yonim ṛtviyam iḻāyās pade ghṛtavantam āsadaḥ | ā te cikitra uṣasām ivetayo repasaḥ sūryasyeva raśmayaḥ ||

पद पाठ

प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ । आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइ॒व । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥ १०.९१.४

ऋग्वेद » मण्डल:10» सूक्त:91» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:20» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (इळायाः-पदे) स्तुति के प्रसङ्ग में (तव) तेरे अपने (ऋत्वियं-योनिम्) यथासमय स्तोता के हृदयरूप घर (घृतवन्तम्) आर्द्र हावभाववाले को (प्रजानन्) भलीभाँति जानता हुआ (आसदः) प्राप्त हो (ते एतयः) तेरे प्राप्त होने की प्रतीतियाँ (उषसाम्-इव) उषाओं के समान (सूर्यस्य-अरेपसः-रश्मयः-इव) सूर्य की निर्दोष किरणों के समान (आ चिकित्रे) प्रतीत होती हैं ॥४॥
भावार्थभाषाः - जब परमात्मा की कोई स्तोता आर्द्र हावभाव भरे हृदय में स्तुति करता है, तो उषाओं के समान या सूर्यकिरणों के समान उसकी प्रतीतियाँ-दर्शन आभाएँ प्रतीत होने लगती हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (इळायाः-पदे) स्तुतिवाचः पदे प्राप्तव्ये प्रसङ्गे (तव-ऋत्वियं योनिम्) स्वकीयं यथासमयं गृहं स्तोतृहृदयम् “योनिः गृहनाम” [निघं० ३।४] (घृतवन्तम्) आर्द्रहावभाववन्तम् (प्रजानन्) प्रकृष्टं जानन् सन् (आ असदः) आसीद (ते-एतयः) तव प्रापणप्रतीतयः (उषसाम्-इव) उषसः-इव “व्यत्ययेन प्रथमास्थाने षष्ठी छान्दसी” (सूर्यस्य-अरेपसः-रश्मयः-इव-आ चिकित्रे) सूर्यस्य निर्दोषाः प्रकाशमाना रश्मय इव प्रतीयन्ते ॥४॥