वांछित मन्त्र चुनें

सु॒दक्षो॒ दक्षै॒: क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥

अंग्रेज़ी लिप्यंतरण

sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit | vasur vasūnāṁ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ ||

पद पाठ

सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् । वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥ १०.९१.३

ऋग्वेद » मण्डल:10» सूक्त:91» मन्त्र:3 | अष्टक:8» अध्याय:4» वर्ग:20» मन्त्र:3 | मण्डल:10» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे परमात्मन् ! तू (दक्षैः) अपने बलों से (सुदक्षः) सुबलवान् है (क्रतुना) अपने कर्म से (सुक्रतुः) उत्तम कर्मवाला है (काव्येन) जगद्रचनारूप कला-कौशल से (कविः) कलाकार है (विश्ववित् असि) विश्व को जाननेवाला है (वसूनां वसुः) बसानेवाले धनों का तू धनविशेषों से बसानेवाला है (त्वम् एकः-इत्) तू एक ही है (द्यावा-पृथिवी च) द्युलोक और पृथिवीलोक (यानि पुष्यतः) जिन भोग्य धनों को पुष्ट करते हैं, उनको तू ही पुष्ट करता है, अतः तू ही उपासनीय है ॥३॥
भावार्थभाषाः - परमात्मा महान् बलवान्, महती कर्मशक्तिवाला कलाकार और ज्ञानी है, द्युलोक और पृथिवी के बीच में जितने भोग्य धन और साधन मिलते हैं, उनका वह ही उत्पन्न करनेवाला और देनेवाला है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे परमात्मन् ! त्वं (दक्षैः-सुदक्षः) स्वबलैः-सुबलवान् (क्रतुना सुक्रतुः) स्वकर्मणा सुकर्मवान् (काव्येन कविः) स्वकौशलेन-जगद्रचनकलाकौशलेन कविः कलाकारः (विश्ववित्-असि) विश्ववेत्ताऽसि (वसूनां वसुः) वासयितॄणां धनानां योगेन त्वं वासयिता धनविशेषैरसि (त्वम्-एकः-इत्) त्वमेक एव (यानि द्यावापृथिवी च पुष्यतः) यानि वसूनि भोग्यधनानि द्यावापृथिव्यौ पुष्यतः सम्पादयतः तानि खल्वपि त्वमेव पुष्यसि सम्पादयसीत्यर्थः ॥३॥