वांछित मन्त्र चुनें

इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिर॑: सुष्टु॒तय॒: सम॑ग्मत । व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥

अंग्रेज़ी लिप्यंतरण

imā asmai matayo vāco asmad ām̐ ṛco giraḥ suṣṭutayaḥ sam agmata | vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat ||

पद पाठ

इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ । व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दः । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥ १०.९१.१२

ऋग्वेद » मण्डल:10» सूक्त:91» मन्त्र:12 | अष्टक:8» अध्याय:4» वर्ग:22» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मै वसवे जातवेदसे) इस मोक्ष में वसानेवाले उत्पन्नमात्र के जाननेवाले सर्वज्ञ परमात्मा के लिए (अस्मत्) हमारी (इमाः) ये (मतयः) मननक्रियाएँ-बुद्धियाँ (वाचः) वाणियाँ (ऋचः) स्तुतियाँ (गिरः) गीतियाँ (सुष्टुतयः) शोभनस्तुति करनेवाले जिनके हैं, ऐसी सब (वसुयवः) मोक्षवास के हेतुभूत (सम् अग्मत) सङ्गत होती हैं (यासु वृद्धासु) जिन वृद्ध प्रवृद्ध हुई में (चित्) अवश्य (वर्धनः-चाकनत्) वह वर्धमान परमात्मा स्तुतिकर्त्ताओं को चाहता है-अपनाता है ॥१२॥
भावार्थभाषाः - मोक्षप्राप्ति के वेदवाणियों का उच्चारण, मनन तथा उसकी स्तुतियाँ प्रेम भरी गीतियाँ परमात्मा को समर्पित करनी चाहिये। वह ऐसे स्तुति करनेवाले को अपनाता है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मै वसवे जातवेदसे) अस्मै मोक्षे वासयित्रे जातमात्रस्य वेदिते सर्वज्ञाय परमात्मने (अस्मत्) अस्माकम् “सुपां सुलुक्” [अष्टा० ७।१।३९] इति षष्ठीविभक्तेर्लुक् (इमाः) एताः (मतयः) मननक्रियाः बुद्धयः (वाचः) वाण्यः (ऋचः) स्तुतयः “ऋच्-स्तुतौ” [तुदादि०] (गिरः) गीतयः “गिरा गीत्या” [निरु० ६।२४१] (सुष्टुतयः) शोभनाः स्तुतिकर्त्तारो यासां तथाभूता एताः सर्वाः (वसुयवः) मोक्षवासहेतुभूताः (सम् अग्मत) सङ्गच्छन्ते (यासु वृद्धासु) यासु प्रवृद्धासु (चित्) अवश्यं (वर्धनः-चाकनत्) स परमात्मा वर्धमानः स्तोतॄन् कामयते गृह्णाति “चाकन् कामयते” [ऋ० २।११।३ दयानन्दः] ॥१२॥