वांछित मन्त्र चुनें

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒: पादो॑ऽस्ये॒हाभ॑व॒त्पुन॑: । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥

अंग्रेज़ी लिप्यंतरण

tripād ūrdhva ud ait puruṣaḥ pādo syehābhavat punaḥ | tato viṣvaṅ vy akrāmat sāśanānaśane abhi ||

पद पाठ

त्रि॒ऽपात् । ऊ॒र्ध्व । उत् । ऐ॒त् । पुरु॑षः । पादः॑ । अ॒स्य॒ । इ॒ह । अ॒भ॒व॒त् । पुन॒रिति॑ । ततः॑ । विष्व॑ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति॑ । अ॒भि ॥ १०.९०.४

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:17» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्रिपात् पुरुषः) पूर्वोक्त वह अमृतरूप तीन पादों से युक्त परमात्मा (ऊर्ध्वः-उदैत्) नश्वर संसार से ऊपर स्थित है (अस्य पादः) इसका पादमात्र संसार (इह पुनः-अभवत्) इधर नश्वररूप में पुनः-पुनः उत्पन्न होता है (ततः) पश्चात् (साशनानशने-अभि) भोगसेवित-भोगनेवाले जीवात्मा को तथा भोगरहित न भोगनेवाले जड़ के प्रति (विष्वक्-व्यक्रामत्) विविध गुणवत्ता से व्याप्त होता है ॥४॥
भावार्थभाषाः - पूर्ण पुरुष परमात्मा अमृतरूप त्रिपाद इस संसार से ऊपर है, यह संसाररूप पाद पुनः-पुनः उत्पन्न होता है। इसके अन्दर भोगनेवाले जीव और न भोगनेवाले जड़ के अन्दर परमात्मा व्याप रहा है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्रिपात्-पुरुषः) पूर्वोक्तः सोऽमृतरूपपादत्रययुक्तः पुरुषः परमात्मा (ऊर्ध्वः-उदैत्) नश्वर-संसारत उपरि स्थितः (अस्य पादः) अस्य पादः संसाररूपः (इह पुनः-अभवत्) ऐहिकः पुनः पुनः भवति (ततः) पश्चात् (साशनानशने अभि) सभोगं जीवात्मानं तथा खल्वभोगं जडं तदुभयं च (विष्वक्-व्यक्रामत्) विविधतया विविधगुणवत्तया व्याप्नोति ॥४॥