वांछित मन्त्र चुनें

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥

अंग्रेज़ी लिप्यंतरण

puruṣa evedaṁ sarvaṁ yad bhūtaṁ yac ca bhavyam | utāmṛtatvasyeśāno yad annenātirohati ||

पद पाठ

पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥ १०.९०.२

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:2 | अष्टक:8» अध्याय:4» वर्ग:17» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुरुषः-एव) परमपुरुष परमात्मा ही (अमृतत्वस्य-ईशानः) मोक्ष का स्वामी अधिष्ठाता है (उत) और (इदं सर्वं यत्-भूतं यत्-च भव्यम्) यह सब जो उत्पन्न हुआ, जो होनेवाला जगत् है तथा (यत्-अन्नेन-अतिरोहति) जो अन्न-भोजन से बढ़ता है जीवमात्र, उसका भी परमपुरुष परमात्मा स्वामी है ॥२॥
भावार्थभाषाः - परमपुरुष परमात्मा जीवमात्र का तथा तदर्थ भोग अपवर्ग-मोक्ष का एवं सब उत्पन्न हुए होनेवाले जगत् का स्वामी है, ऐसा मान कर उसकी स्तुति करनी चाहिए ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुरुषः-एव) परमपुरुषः परमात्मैव (अमृतत्वस्य-ईशानः) मोक्षस्य स्वामी तथाऽधिष्ठाताऽस्ति “अमृतत्वस्यापि मोक्षस्यापि-ईशानः” [यजुः उव्वटः] (उत) अपि च (इदं सर्वं यत्-भूतं यत्-च भव्यम्) एतत् सर्वं यद् भूतं गतं यच्च भवितव्यं जगत् तथा (यत्-अन्नेन-अतिरोहति) यच्च भोजनेन वर्धते “जीवजातमन्नेनातिरोहति-उत्पद्यते तस्य सर्वस्य चैवेशानः” [यजु० महीधरः] तस्यापि परमपुरुषः परमात्मा स्वामी ह्यस्ति ॥२॥