वांछित मन्त्र चुनें

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥

अंग्रेज़ी लिप्यंतरण

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | sa bhūmiṁ viśvato vṛtvāty atiṣṭhad daśāṅgulam ||

पद पाठ

स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् । सः । भूमि॑म् । विश्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥ १०.९०.१

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:1 | अष्टक:8» अध्याय:4» वर्ग:17» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में सब जड़जङ्गम का उत्पादक स्वामी परमात्मा है तथा जीवों के लिये भोग अपवर्ग देनेवाला है इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (पुरुषः) सब जगत् में पूर्ण परमात्मा (सहस्रशीर्षा) असंख्यात शिरवाला-अनन्तज्ञानशक्तिमान् (सहस्राक्षः) असंख्यात चक्षुवाला-अनन्तदर्शनशक्तिवाला (सहस्रपात्) असंख्यात गतिवाला-विभुगतिवाला (सः) वह (भूमिम्) भुवन-ब्रह्माण्ड को (विश्वतः) सब ओर से (वृत्वा) व्याप्त होकर (दशाङ्गुलम्) दश अङ्गुलियों से मापने योग्य-स्थूल सूक्ष्म दश भूतों से युक्त या पैर की दश अङ्गुलियों-पादमात्र जगत् को भी (अत्यतिष्ठत्) लाँघ वर्तमान है ॥१॥
भावार्थभाषाः - जगत् में पूरण पुरुष परमात्मा अनन्त ज्ञानवान्, अनन्तदर्शन शक्तिमान्, अनन्त गतिमान्-विभुगतिमान् है, उसके सम्मुख सारा ब्रह्माण्ड एकदेशी अल्प है। सब स्थूल सूक्ष्म भूतमय ब्रह्माण्ड को व्यापकर अपने अन्दर रख इसके बाहिर भी वर्तमान है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते सर्वस्य जडजङ्गमस्योत्पादयिता स्वामी च परमात्मा तथा जीवेभ्यो भोगापवर्गविधाता चेत्येवमादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (पुरुषः) विश्वस्मिन् जगति पूरणः परमात्मा (सहस्रशीर्षा) असंख्यातशिरस्कोऽनन्तज्ञानशक्तिमान् (सहस्राक्षः) असंख्यात-चक्षुष्मान्-अनन्तदर्शनशक्तिमान् (सहस्रपात्) असंख्यातगतिको विभुगतिमान् (सः) स खलु (भूमिं-विश्वतः-वृत्वा) भुवनं ब्रह्माण्डं सर्वतो व्याप्य (दशाङ्गुलम्-अत्यतिष्ठत्) दशभिरङ्गुलिभिर्मातव्यं स्थूलसूक्ष्मभूतदशकान्वितं यद्वा पादमात्रदशाङ्गुलपरिमितं ब्रह्माण्डं यथोक्तम्−“पादोऽस्य विश्वा भूतानि” तदतिक्रम्यातिष्ठद् वर्तमानोऽस्ति ॥१॥