वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: रेणुः छन्द: त्रिष्टुप् स्वर: धैवतः

इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥

अंग्रेज़ी लिप्यंतरण

indrāya giro aniśitasargā apaḥ prerayaṁ sagarasya budhnāt | yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām ||

पद पाठ

इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् । यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥ १०.८९.४

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:14» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्राय) ऐश्वर्यवान् परमात्मा के लिये (अनिशितसर्गाः) अननुकूल प्रवाहवाले (अपः-गिरः) जलों के समान स्तुतियाँ (प्रेरयम्) प्रेरित कर (सगरस्य बुध्नात्) आकाश के प्रदेश हृदय से (यः) जो परमात्मा (अक्षेण-इव शचीभिः-चक्रिया) अक्षदण्ड से जैसे चक्रों को कर्मों से (पृथिवीम्-उत द्याम्) पृथिवी और द्युलोक को (विष्वक् तस्तम्भ) व्याप्ति से सम्भाल रहा है ॥४॥
भावार्थभाषाः - परमात्मा के लिये न रुकनेवाले स्तुतिप्रवाहों को ही प्रेरित करना चाहिए, जो अपनी व्याप्ति से द्युलोक पृथिवी चक्रों के समान चला रहा, सम्भाल रहा है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्राय) ऐश्वर्यपते परमात्मने (अनिशितसर्गाः) अननुकूलप्रवाहाः (अपः-गिरः) अप इव स्तुतीः (प्रेरयम्) प्रेरय “पुरुषव्यत्ययेनोत्तम-पुरुषः” (सगरस्य बुध्नात्) अन्तरिक्षास्याकाशस्य प्रदेशात्-हृदयात् “सगरोऽन्तरिक्षम्” [निघं० १।३] (यः) य इन्द्रः परमात्मा (अक्षेण-इव शचीभिः-चक्रिया) अक्षदण्डेन यथा चक्राणि कर्मभिः “चक्रात्” “डिया प्रत्ययश्छान्दसः” तथा (पृथिवीम् उत द्यां विष्वक् तस्तम्भ) पृथिवीं द्यां च द्यावापृथिव्यौ व्याप्त्या स्तम्भयति ॥४॥