वांछित मन्त्र चुनें

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः । स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमाप॑: ॥

अंग्रेज़ी लिप्यंतरण

sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ | sa eṣāṁ yajño abhavat tanūpās taṁ dyaur veda tam pṛthivī tam āpaḥ ||

पद पाठ

सू॒क्त॒ऽवा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒ऽपाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः॑ ॥ १०.८८.८

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:8 | अष्टक:8» अध्याय:4» वर्ग:11» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) विद्वान् जन  (प्रथमम्) प्रथम (सूक्तवाकम्) मन्त्रसंस्थान को बोलते हैं (आत्-इत्) अनन्तर ही अग्नि को ज्वलित करते हैं (आत्-इत्) अनन्तर ही (हविः-अजनयन्त) हव्य वस्तु को सम्पादन करते हैं या होमते हैं ॥८॥
भावार्थभाषाः - विद्वानों को प्रथम मन्त्रसमूह बोलना चाहिए। पुनः अग्न्याधान करना, फिर होमने योग्य वस्तु अग्नि में छोड़ते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः प्रथमं सूक्तवाकम्) विद्वांसः प्रथमं मन्त्रसंस्थानमाचरन्ति (आत्-इत्) अनन्तरम् (अग्निम्) अग्निं ज्वालयन्ति-आदधति वा (आत्-इत्) अनन्तरमेव (हविः-अजनयन्त) हव्यं सम्पादयन्ति-जुह्वति (एषां सः-यज्ञः) एतेषां स यज्ञः (तनूपाः-अभवत्) शरीररक्षको भवति (तं द्यौः-वेद) तं यज्ञं द्यौर्द्युलोकः प्राप्नोति (तं पृथिवी) तं यज्ञं पृथिवी च प्राप्नोति (तम्-आपः) तं यज्ञमन्तरिक्षं च प्राप्नोति ॥८॥