वांछित मन्त्र चुनें

यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ । तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥

अंग्रेज़ी लिप्यंतरण

yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena | taṁ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ ||

पद पाठ

यत् । जा॒त॒ऽवे॒दः॒ । भुव॑नस्य । मू॒र्धन् । अति॑ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन॑ । तम् । त्वा॒ । अ॒हे॒म॒ । म॒तिऽभिः॑ । गीः॒ऽभिः । उ॒क्थैः । सः । य॒ज्ञियः॑ । अ॒भ॒वः॒ । रो॒द॒सि॒ऽप्राः ॥ १०.८८.५

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:5 | अष्टक:8» अध्याय:4» वर्ग:10» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने) हे जातप्रज्ञान-सर्वत्र नायक परमात्मन् ! (यत्) जिससे तू (रोचनेन सह) स्वकीय ज्ञानप्रकाश के साथ (भुवनस्य) प्राणिमात्र के (मूर्धन्) मूर्धा पर शिरोधार्य शासक हुआ (अतिष्ठः) स्थित है, (तं त्वा) उस तुझ को (मतिभिः-गीर्भिः) मननीय क्रियाओं से तथा स्तुतियों से (उक्थैः) प्रशंसावचनों से (अहेम) हम प्राप्त करें, (सः) वह तू (रोदसिप्राः) द्यावापृथिवीमय जगत् को अपनी व्याप्ति से पूरण करनेवाला संगमनीय है ॥५॥
भावार्थभाषाः - परमात्मा समस्त संसार में व्याप्त है तथा प्राणिमात्र के ऊपर शासन करता है, उसे मननप्रकारों स्तुति प्रशंसाओं द्वारा प्राप्त किया जाता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने) हे जातप्रज्ञान-सर्वज्ञ नायक परमात्मन् ! (यत्) यतस्त्वम् ! (रोचनेन सह) स्वकीयज्ञानप्रकाशेन सह (भुवनस्य मूर्धन्-अतिष्ठ)  प्राणिमात्रस्य मूर्धनि शिरोधार्यः शासकः सन् तिष्ठसि (तं त्वा) तं त्वां (मतिभिः-गीर्भिः) मननक्रियाभिः स्तुतिभिः (उक्थैः-अहेम) प्रशंसावचनैश्च प्राप्नुयाम “हि गतौ” [स्वादि०] (सः) स त्वं (रोदसि प्राः) द्यावापृथिवीमयस्य विश्वस्य पूरयिता सङ्गमनीयो भव ॥५॥